*स्वर्वाणीप्रकाशः* (वाट्साप् गणः) 🎊शुक्रवासरः आषाढपौर्णमी (27-07-18)🌷 ✍प्रस्तावविषयः-- व्यासपूजनम्🙏 नमः सभायै। आषाढपूर्णिमा महाभारतस्य रचयिताकृष्णद्वैपायनव्यासस्य जन्मदिनम्। अतः व्यासपूजनरूपेण मन्यते। व्यासेन वेदराशिर्विभाजिता। स महान् ज्ञानी। तेन रचितं महाभारतं तु एकमेवाद्वितीयम्। तस्मिन् युधिष्ठिरभीमार्जुनभीष्मद्रोणादीनां उत्तममनुजानां दोषाः वर्णिताः। तथैव दुर्योधनकर्णादीनां दुर्जनानां सद्गुणकथनं वर्तते। न को$पि संपूर्णगुणवान् न च को$पि केवलं दुर्जनः। भारतकथा पठित्वा वयं ज्ञातुं शक्नुमः यत् सद्गुणदुर्गुणयोः मिश्रणं नाम मनुष्यः। तस्मात् “यत्किमपि भारतकथायामस्ति तत् सर्वं विश्वे$स्मिन् भवति। यत् तत्र नास्ति तत् जगति न भवितुमर्हति।” इति किंवदन्ती प्रसिद्धा। भगवद्भक्तेः संस्कृतेश्च प्रतिपादनं व्यासेन कृतम्। वेदविद्यामार्तंड: व्यास: आद्यगुरु:। तस्मादेव व्यासस्य जन्मदिनं गुरुपूजनोत्सवरूपेण मन्यते। यस्मिन् पीठे संस्कृतेर्भगवद्भक्तेश्च उद्घोषणं भवति तत् पीठमधुनापि व्यासपीठमिति शब्देन ज्ञायते। व्यासपीठासीनव्यक्तिः शास्त्रज्ञः भगवद्भक्तश्च भवेत्। तथा सदैव संस्कृतिगौरवं ब्रूयात्। देवदेशधर्माणां मण्डनं तस्य प्रवचनेन कीर्तनेन भजनेन भवेत्। एतादृशस्य गुरो:व्यासरूपेण आषाढपूर्णिमादिने पूजनं कुर्यात्। अधुना तु व्यासपीठे अनधिकारिव्यक्तीनां पाखण्डिगुरूणां महत्त्वं वर्तते। तान् रोध्दुं न को$पि समर्थः। देशधर्महिताय अयोग्यमेतत्। अतः सावधानतया गुरुचयनमावश्यकम्। उपायः केवलं लोके गुरुशरणमेव हि। आद्यगुरवे व्यासाय नमः। मानसी दीक्षित
*स्वर्वाणीप्रकाशः* (वाट्साप् गणः)
🎊शुक्रवासरः आषाढपौर्णमी (27-07-18)🌷
✍प्रस्तावविषयः-- व्यासपूजनम्🙏
🎊शुक्रवासरः आषाढपौर्णमी (27-07-18)🌷
✍प्रस्तावविषयः-- व्यासपूजनम्🙏
नमः सभायै।
आषाढपूर्णिमा महाभारतस्य रचयिताकृष्णद्वैपायनव्यासस्य जन्मदिनम्। अतः व्यासपूजनरूपेण मन्यते। व्यासेन वेदराशिर्विभाजिता। स महान् ज्ञानी। तेन रचितं महाभारतं तु एकमेवाद्वितीयम्। तस्मिन् युधिष्ठिरभीमार्जुनभीष्मद्रोणादीनां उत्तममनुजानां दोषाः वर्णिताः। तथैव दुर्योधनकर्णादीनां दुर्जनानां सद्गुणकथनं वर्तते। न को$पि संपूर्णगुणवान् न च को$पि केवलं दुर्जनः। भारतकथा पठित्वा वयं ज्ञातुं शक्नुमः यत् सद्गुणदुर्गुणयोः मिश्रणं नाम मनुष्यः। तस्मात् “यत्किमपि भारतकथायामस्ति तत् सर्वं विश्वे$स्मिन् भवति। यत् तत्र नास्ति तत् जगति न भवितुमर्हति।” इति किंवदन्ती प्रसिद्धा।
भगवद्भक्तेः संस्कृतेश्च प्रतिपादनं व्यासेन कृतम्। वेदविद्यामार्तंड: व्यास: आद्यगुरु:। तस्मादेव व्यासस्य जन्मदिनं गुरुपूजनोत्सवरूपेण मन्यते।
यस्मिन् पीठे संस्कृतेर्भगवद्भक्तेश्च उद्घोषणं भवति तत् पीठमधुनापि व्यासपीठमिति शब्देन ज्ञायते। व्यासपीठासीनव्यक्तिः शास्त्रज्ञः भगवद्भक्तश्च भवेत्। तथा सदैव संस्कृतिगौरवं ब्रूयात्। देवदेशधर्माणां मण्डनं तस्य प्रवचनेन कीर्तनेन भजनेन भवेत्। एतादृशस्य गुरो:व्यासरूपेण
आषाढपूर्णिमादिने पूजनं कुर्यात्।
अधुना तु व्यासपीठे अनधिकारिव्यक्तीनां पाखण्डिगुरूणां महत्त्वं वर्तते। तान् रोध्दुं न को$पि समर्थः। देशधर्महिताय अयोग्यमेतत्। अतः सावधानतया गुरुचयनमावश्यकम्।
उपायः केवलं लोके गुरुशरणमेव हि।
आद्यगुरवे व्यासाय नमः।
मानसी दीक्षित
Comments
Post a Comment