Posts

Showing posts from July, 2021

लोकमान्य

               लोकमान्यः तिलकमहाभागः। 🙏🙏🙏🙏🙏    अद्य १ अगस्ट। महातेजस्विदेशभक्तस्य लोकमान्यतिलकमहोदयस्य पुण्यतिथि:। ।“स्वातंत्र्यं मम जन्मसिद्धोsधिकारः। अहं तं प्राप्स्याम्येव।” तस्य एषा उद्घोषणा प्रसिद्धा। आजीवनं तेन स्वस्य ओजपूर्णलेखनेन आङ्ग्लशासकानां अत्याचाराणां निर्भत्सना कृता। होलिकावसरे विदेशीयवस्त्राणां दहनं कृतम्। केसरी नाम्नि वर्तमानपत्रे आङ्ग्लशासनं स्वस्य ओजस्विनिवाण्या वाग्बाणैः च भृशं प्रताडितवान्। “सरकारचे डोके ठिकाणावर आहे काय?” एतादृशं प्रश्नं पृष्टवान्। तस्य प्रत्येकं कृति: केवलं स्वदेशस्वातन्त्र्यार्थमेव।      महाराष्ट्रे भाद्रपदमासे गृहे गृहे गणेशपूजनस्य पुरातनी परम्परा। तिलकमहोदयेन १० दिनात्मकस्य सार्वजनिकगणेशपूजनस्य प्रारम्भ: कृत:। तत्र भाषणैः नाटकैः देशभक्तियुतैः ओजपूर्णैः गीतैः जनमनसि आङ्ग्लशासनविरोधस्य स्फुल्लिङ्गं सततं प्रज्वालितं महोदयेन। तथैव लोकजागरणार्थं शिवजयन्ती उत्सवस्य सार्वजनिकोत्सवरूपेण प्रारम्भः कृतः।  स्वतन्त्रतान्दोलनं तदा जनान्दोलने परिवर्तितम्।   ...

प्रज्ञाभारती वर्णेकरवर्यः ...

  प्रज्ञाभारती   प्रज्ञाभारती श्रीधर भास्कर वर्णेकर महोदयः नागपुरस्य भूषणः।  सह्रदयकविः , क्रान्तदर्शीलेखक:, धाराप्रवाह वक्ता, बहुभाषाविद् महोदयः संस्कृतस्य प्रचारप्रसारार्थमाजीवनं प्रयतत्। 20 वर्षपर्यन्तं महोदयः व्रतरूपेण केवलं संस्कृतेनैव अभाषत।          संस्कृते महोदयेन महाकाव्य-नाटक-कथा-ललितलेखनं च कृतम्। शिवराज्योदयम् नाम्नः महोदयस्य महाकाव्यं प्रसिद्धम्। तस्मिन् ६४ सर्गाः सन्ति। महाराष्ट्रदैवतस्य शिवरायस्य पराक्रमस्य ओजस्वीवर्णनं तस्मिन् विद्यते। महोदयस्य भाषा सरला सुबोधा च। कथावल्लरी नाम्ना कथासङ्ग्रहे सम्मिलिताः सर्वकथाः स्वदेशप्रेम्ना परिपूर्णाः।  विवेकानंदविजयमिति नाटके विवेकानंदस्य धवलजीवनचरित्रस्य सात्विकशब्दचित्रं सुबोधभाषया वर्णितम् महोदयेन।          महोदयेन सुबोधमराठीभाषायां ज्ञानेश्वर्याः सुबोध ज्ञानेश्वरी नाम्ना समश्लोकी रचिता।         संस्कृतभवितव्यम् नाम्ना संस्कृतपत्रिकायाः स संस्थापकः सम्पादकश्च। आसप्ततिवर्षतः अवि...

जगद्गुरुः आदिशङ्कराचार्यः ....

आदिशङ्कराचार्यः……  येषां केवलं नामोच्चारणेन अस्माकं ग्रीवा गर्वेन उन्नता भवेत्। वयं नतमस्तकाः भवाम।येषां प्रातःस्मरणेन अस्माकं दिनप्रारम्भः भवेत् तथा च अपराधक्षमापनस्तोत्रेण निशा उज्ज्वलयेत तादृशं आचार्यं भूयोभूयो नम्यामहम्। अद्वैतवेदान्तस्य उद्गाता एवं सनातनहिन्दुधर्मस्य संरक्षकमहान्तत्त्वज्ञस्य आद्य शंकराचार्यस्य जीवनकार्यं अतुलनीयम्।तेन अणुवादं तथा कर्मकाण्डवादं निष्कास्य अद्वैतवेदान्तसिद्धान्तः प्रतिपादितः। अष्टशततमे वर्षे कन्याकुमारीतः काश्मिरपर्यंन्तं,द्वारकातः जगन्नाथपुरीपर्यंन्तं सम्पूर्णदेशे भ्रमणं कृत्वा हिन्दुधर्मं सञ्जीवनी प्रदत्ता।द्वारका-पुरी-श्रुङ्गेरी-बदरीकेदार एतेषु स्थानेषु धर्मपीठानां स्थापनां कृत्वा मठआचार्यपरम्परायाः पुनरुज्जीवनं कृतम्। प्रस्थानत्रयीषु आचार्यस्य भाष्यग्रन्थाः प्रसिद्धाः।संदर्भग्रन्थरूपेण उपयुज्यन्ते अभ्यासकैः। गीताभाष्यं, विष्णुसहस्रनामभाष्यं, विवेकचूडामणिः अन्यतमम्।इतोपि नैकेषु विषयेषु भवतः भाष्यग्रन्थाः प्रसिद्धाः। गणेश-शङ्कर-विष्णु-देवी-सूर्य-एतेषां पञ्चब्रह्मस्वरुपात्मकदेवतानां पञ्चायतपूजनस्य समन्वयः कृतः। एतानां देवतानां शताधिकानि स्तोत्रा...