लोकमान्य
लोकमान्यः तिलकमहाभागः।
🙏🙏🙏🙏🙏
अद्य १ अगस्ट। महातेजस्विदेशभक्तस्य लोकमान्यतिलकमहोदयस्य पुण्यतिथि:। ।“स्वातंत्र्यं मम जन्मसिद्धोsधिकारः। अहं तं प्राप्स्याम्येव।” तस्य एषा उद्घोषणा प्रसिद्धा। आजीवनं तेन स्वस्य ओजपूर्णलेखनेन आङ्ग्लशासकानां अत्याचाराणां निर्भत्सना कृता। होलिकावसरे विदेशीयवस्त्राणां दहनं कृतम्। केसरी नाम्नि वर्तमानपत्रे आङ्ग्लशासनं स्वस्य ओजस्विनिवाण्या वाग्बाणैः च भृशं प्रताडितवान्। “सरकारचे डोके ठिकाणावर आहे काय?” एतादृशं प्रश्नं पृष्टवान्। तस्य प्रत्येकं कृति: केवलं स्वदेशस्वातन्त्र्यार्थमेव।
महाराष्ट्रे भाद्रपदमासे गृहे गृहे गणेशपूजनस्य पुरातनी परम्परा। तिलकमहोदयेन १० दिनात्मकस्य सार्वजनिकगणेशपूजनस्य प्रारम्भ: कृत:। तत्र भाषणैः नाटकैः देशभक्तियुतैः ओजपूर्णैः गीतैः जनमनसि आङ्ग्लशासनविरोधस्य स्फुल्लिङ्गं सततं प्रज्वालितं महोदयेन। तथैव लोकजागरणार्थं शिवजयन्ती उत्सवस्य सार्वजनिकोत्सवरूपेण प्रारम्भः कृतः। स्वतन्त्रतान्दोलनं तदा जनान्दोलने परिवर्तितम्।
सर्वकारेण महोदयः बद्धः जातः। स मण्डालेकारागृहं प्रति प्रेषितः। तत्र महोदयेन गीतारहस्य नाम्ना भगवद्गीताटीका रचिता। तस्यां महोदयेन कर्मसिद्धान्तः प्रतिपादित:। गीतायां रचितायां उत्तमतरायां टीकायां गीतारहस्य एषा टीका समाविष्टा।
स न केवलं प्रखरदेशभक्तोsपितु महान् संस्कृतज्ञ: गणितज्ञः खगोलज्ञः इतिहासज्ञश्च। तेन “ डेक्कन शिक्षण संस्था” स्थापिता। फर्ग्युसनमहाविद्यालयस्य स्थापना कृता ।
१८९५ तमे वर्षे भयङ्करदुर्भिक्ष्यं जातम्। तदा महोदयः कृषकान् सङ्घटितवान्। “प्लेग” रोगेण पीडितेषु आङ्गशासकैः भृशमत्याचार: कृत:। तदानीं महोदयेन “केसरी” तथा “मराठा” एतयोर्वार्तापत्रयोः स्वस्य ओजस्विलेखैः शासनं तर्जितवान्। तैः लेखैः आतङ्कितेन सर्वकारेण तिलकमहोदयः बद्ध्वा कारागृहं प्रति प्रेषितः।
तिलकपञ्चाङ्गस्यापि तिलकमहोदयेन प्रारम्भः कृत:। अधुनापि बहवः जनाः उपयुज्यन्ति तत् पञ्चाङ्गम्।
“ओरायन ( Orion )” इत्यस्मिन् ग्रन्थे वेदकालनिर्णयः एतादृशः कठिनविषयः महोदयेन सरलतया निरुपितः।
Arctic Home in the Vedas इत्यस्मिन् ग्रन्थे आर्याणां मूलस्थानविषये अभ्यासपूर्णतथ्यं कथितम्।
संपूर्णजीवने केवलं स्वदेशविचारो मनसि निधाय गीताया: कर्मसिद्धान्तस्य न केवलं गीतारहस्ये निरुपणं कृतं परं कर्मयोगी भूत्वा कर्मसिद्धान्तं जीवने आचरितवान्। स्वदेशस्वातन्त्र्यार्थं कृतेनाथकपरिश्रमेन जराजर्जरो भवतः देह: १९२० शततमे वर्षे शान्त: जात:।
अस्मिन् लघुलेखे तस्य महत्कार्यस्य परिचयोऽशक्य एव। भवत्सदृशैर्नैकैर्देशभक्तैः कृतस्वजीवितहोमैः स्वतन्त्रिते भारते वयं श्वसितुं शक्नुमः। अत्याचारमुक्त-रम्य-सुजल-सुफलमातृभूम्याः तेषां स्वप्नं प्रत्यक्षं भवेत् तादृशा: प्रयत्ना: अस्माभिः करणीया:।
मानसी दीक्षित
Comments
Post a Comment