वामना मूर्तिः उन्नता कीर्तिः ...

*वामना मूर्तिः उन्नता कीर्तिः ….* 
राजीवगान्धीखेलरत्नपुरस्कारप्राप्ता, पद्मश्रीउपाधिसम्मानिता,टोक्यो ऑलम्पिकक्रीडास्पर्धायां भारोत्तोलने रजतपदकप्राप्ता २६ वर्षीया वामना युवति मीराबाई चानु इतिहासं रचितवती। रजतपदकं विजित्य तया देशगौरवः हिमालय इव उन्नतः कृतः। 
मणिपुरराज्ये एकस्मिन् लघुग्रामे सा जनिमलभत। गिरिप्रदेशे वास्तव्यात् प्रतिदिनमिन्धनाय वनं गत्वा काष्ठसङ्ग्रहणं तस्याः नित्यकार्यम्। तदा सा द्वादशवर्षीया बाला अग्रजादपेक्षया अधिकं भारं सोढुं समर्था। तदैव तस्याः भारोत्तोलनक्षमतां ज्ञात्वा परिवारेण तां भारोत्तोलनक्रीडायां गन्तुं प्रोत्साहितः। तस्याः ग्रामतः  विशेषप्रशिक्षणसंस्था (academy) ६० किलोमीटरयावत् दूरे स्थिता आसीत्। तत्र बसयानेन  गमनाय प्रतिदिनं धनमपेक्षितम्। अतः एकवारं सा भारवाहकयानेन गता। तस्मात् यदा चालकाः ज्ञातवन्तः सा प्रतिदिनं गच्छति स्म तदा ते भारवाहकचालकाः तां गमनागमनाय विनामूल्यं सहाय्यं कृतवन्तः। कृतोपकारान् स्मृत्वा मीराबाई रजतपदकप्राप्त्यानन्तरं तान् सर्वानन्विष्य स्वगृहे तेषां सर्वेषां सभाजनं कृतवती। 

 *न क्षुद्रोऽपि प्रथमसुकृतापेक्षया संश्रयाय ।
प्राप्ते मित्रे भवति विमुख:किं पुनर्यस्तथोच्चै: ।।* 

इदं कालिदासवचनं सा साक्षात्कृतवती।
सा प्रथमवारं २०१७ तमे वर्षे अमेरिकायां विश्वभारोत्तोलनस्पर्धायां सुवर्णपदकं विजितवती। तदनन्तरं तु सा निरन्तरं विजयपथि अग्रेसरा जाता। २०१८ तमे वर्षे  कॉमनवेल्थक्रीडास्पर्धायां पूर्वविक्रमान् उल्लङ्घ्य नवकीर्तिमानमुपस्थापितवती। सुवर्णपदकं च प्राप्तवती। २०१९ तमे वर्षे पुनः विश्वभारोत्तोलनस्पर्धायां चतुर्थस्थानं प्राप्तवती। राष्ट्रियस्पर्धायां नवविक्रमं संस्थाप्य सुवर्णपदकमर्जितं तया । २०२१ तमे वर्षे एप्रिलमासे ताश्कंदमध्ये आशियाई भारोत्तोलनक्रीडास्पर्धायां पुनः नवकीर्तिमानेन सह सुवर्णपदके स्वनाम अङ्कितवती। सर्वतोपरि टोकियोऑलम्पिकस्पर्धायां तस्याः रजतपदकेन २० वर्षानन्तरं कोsपि भारतीयभारोत्तोलकः पदकं प्राप्तवान्। ततः पूर्वं कर्णं मल्लेश्वरी कांस्यपदकं विजितवती। 
मीराबाईवर्यायाः एषा विजययात्रा न तावती सरला यावती वयं चिन्तयामः। वर्षद्वयानन्तरं सा गृहभोजनमास्वादितवती इति सा ट्विटर माध्यमेन उक्तवती। ऑलम्पिकस्पर्धायाः दिनद्वयपूर्वं भारवर्धनभयात् सा निराहरा आसीत्। यतोहि भारवर्धनेन कदाचित् निष्कासनं भवेत्। 
यस्मिन् वयसि किं करणीयं किं न करणीयमित्यस्य निर्णयं कर्तुं वयमक्षमाः तस्मिन् वयसि मीराबाई देशस्य यूनां पुरतः स्वोदाहरणेन कार्यस्फुल्लिङगं प्रज्वलितवती। अधुना तु सा केवलं २६ वर्षीया। अतः अग्रे सा सदैव विजयपथि अग्रेसरा भूत्वा गौरवं प्राप्स्यति। देशकीर्तिं च वर्धयति न इत्यत्र कोsपि सन्देहः। 
 *नाभिषेको न संस्कार: सिंहस्य क्रियते मृगैः । विक्रमार्जितराज्यस्य स्वयमेव मृगेंद्रता ॥* 

मानसी दीक्षित

Comments