संस्कृतावाक्....

संस्कृतावाक्….

अमृतमधुरा भाषा

वाणी सा नित्यनूतना।

वैखरी केवलं नैव

पश्यन्ती मध्यमा परा।।

    

धर्मार्थकाममोक्षाणां

संसिद्धिरनया यथा।

पथप्रदर्शिका सा तु

जीवनयापने तथा।।


शिक्षाकल्पनिरुक्तञ्च

छन्दव्याकरणन्तथा।

वेदाङ्गेषु हि तत्सर्वं

ज्योतिर्चिन्तनमेव च।।


अभ्युदयाय मर्त्यस्य

निःश्रेयसे यथैव च।

वेदेषु वै पराज्ञानं

आयुर्ज्ञानन्तथैव च।।


ब्रह्मनिरुपणं सम्यक्

उपनिषत्सु विद्यते।

स्मृतिषु नियमो वै हि

मानुषजीवनाय च।।


पुराणेष्वितिहासेषु

संस्कृतिदर्शनं यदा।

मनोरमकथाभ्यश्च

विनोदम्बोधनन्तदा।।


मेध्या साहित्यगङ्गा तु

निरन्तर प्रवाहिता।

अन्यासु नैव भाषासु

विश्वेsस्मिन् वै प्रवाहिता।।


कार्याकार्यविवेकश्च

रामायणे च भारते।

विद्यते ब्रह्मसूत्रेषु

अक्षरब्रह्मबोधनम्।।


भारतस्याभिमानो वै

गौरवं संस्कृतस्य हि।

उक्ता भगवता गीता

सर्वत्र भुवि विश्रुता।।


जननी सर्वभाषाणां

तथा संस्कृतिदर्पणम्।

वैखरी सा तु सर्वेषां

कण्ठे कण्ठे भवेत्सदा।।


परमवैभवप्राप्तिः

राष्ट्रगौरववर्धनम्।

निहिते संस्कृते नित्यं

तस्मात् वदतु संस्कृतम्।।


मानसी दीक्षित।

Comments