लोकमान्य
लोकमान्यः तिलकमहाभागः। 🙏🙏🙏🙏🙏 अद्य १ अगस्ट। महातेजस्विदेशभक्तस्य लोकमान्यतिलकमहोदयस्य पुण्यतिथि:। ।“स्वातंत्र्यं मम जन्मसिद्धोsधिकारः। अहं तं प्राप्स्याम्येव।” तस्य एषा उद्घोषणा प्रसिद्धा। आजीवनं तेन स्वस्य ओजपूर्णलेखनेन आङ्ग्लशासकानां अत्याचाराणां निर्भत्सना कृता। होलिकावसरे विदेशीयवस्त्राणां दहनं कृतम्। केसरी नाम्नि वर्तमानपत्रे आङ्ग्लशासनं स्वस्य ओजस्विनिवाण्या वाग्बाणैः च भृशं प्रताडितवान्। “सरकारचे डोके ठिकाणावर आहे काय?” एतादृशं प्रश्नं पृष्टवान्। तस्य प्रत्येकं कृति: केवलं स्वदेशस्वातन्त्र्यार्थमेव। महाराष्ट्रे भाद्रपदमासे गृहे गृहे गणेशपूजनस्य पुरातनी परम्परा। तिलकमहोदयेन १० दिनात्मकस्य सार्वजनिकगणेशपूजनस्य प्रारम्भ: कृत:। तत्र भाषणैः नाटकैः देशभक्तियुतैः ओजपूर्णैः गीतैः जनमनसि आङ्ग्लशासनविरोधस्य स्फुल्लिङ्गं सततं प्रज्वालितं महोदयेन। तथैव लोकजागरणार्थं शिवजयन्ती उत्सवस्य सार्वजनिकोत्सवरूपेण प्रारम्भः कृतः। स्वतन्त्रतान्दोलनं तदा जनान्दोलने परिवर्तितम्। ...